(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.15. अध्यायः 015
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरंप्रत्यर्जुनवाक्यम्॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

वैशम्पायन उवाच। 12-15-0x(5791)(70933)
याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत्।
अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम्॥ 12-15-1(70934)
अर्जुन उवाच। 12-15-2x(5792)
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति।
दण़्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः॥ 12-15-2(70935)
दण्डः संरक्षते धर्मं तथैवार्यं जनाधिप।
कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते॥ 12-15-3(70936)
दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते।
एतद्विद्वानुपादाय स्वभावं पश्य लौकिकम्॥ 12-15-4(70937)
राजदण्डभयादेके नराः पापं न कुर्वते।
यमदण्डभयादेके परलोकभयादपि॥ 12-15-5(70938)
परस्परभयादेके पापाः पापं न कुर्वते।
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम्॥ 12-15-6(70939)
दण्डस्यैव भयादेके न खादन्ति परस्परम्।
अन्धेतमसि मज्जेयुर्यदि दण्डो न पालयेत्॥ 12-15-7(70940)
यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि।
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः॥ 12-15-8(70941)
वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम्।
धनदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते॥ 12-15-9(70942)
असंमोहाय मर्त्यानामर्थसंरक्षणाय च।
मर्यादा स्थापिता लोके दण्डसंज्ञा विशांपते॥ 12-15-10(70943)
यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति॥ 12-15-11(70944)
ब्रह्मचारी गृहस्थश्च वानप्रस्थस्च भिक्षुकः।
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः॥ 12-15-12(70945)
नाभीतो यजते राजन्नाभीतो दातुमिच्छति।
नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति॥ 12-15-13(70946)
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम्।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्॥ 12-15-14(70947)
नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः।
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत।
`माहेन्द्रं च गृहं लेभे लोकानां चेश्वरोऽभवत्॥' 12-15-15(70948)
य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम्।
हन्तारुद्रस्तथास्कन्दः शक्रोऽग्निर्वरुणो यमः॥ 12-15-16(70949)
हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः।
वसवो मरुतः साध्या विश्वेदेवाश्च भारत॥ 12-15-17(70950)
एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः।
न ब्रह्माणं न धातारं न पूषाणं कथंचन॥ 12-15-18(70951)
मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान्।
यजन्ते मानवाः केचित्प्रशान्तान्सर्वकर्मसु॥ 12-15-19(70952)
न हि पश्यामि जीवन्तं लोके कंचिदर्हिसया।
सत्वैः सत्वा हि जीवन्ति दुर्बलैर्बलवत्तराः॥ 12-15-20(70953)
नकुलो मूषिकानत्ति बिडालो नकुलं तथा।
बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा॥ 12-15-21(70954)
तानत्ति पुरुषः सर्वान्पश्य धर्मो यथा गतः।
प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत्॥ 12-15-22(70955)
विधानं दैवविहितं तत्र विद्वान्न मुह्यति।
यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि॥ 12-15-23(70956)
विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः।
विना वधं न कुर्वन्ति तापसाः प्राणयापनम्॥ 12-15-24(70957)
उदके बहवः प्राणाः पृथिव्यां च फलेषु च।
न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनम्॥ 12-15-25(70958)
सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित्।
पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः॥ 12-15-26(70959)
ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः।
वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः॥ 12-15-27(70960)
भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून्।
मनुष्यास्तन्वये यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च॥ 12-15-28(70961)
दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः।
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः॥ 12-15-29(70962)
दण्डश्चेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः।
जले मत्स्यानिवाभक्ष्यन्दुर्बलान्बलवत्तराः॥ 12-15-30(70963)
सत्यं बतेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधुनीतः।
पश्याग्नयः पूतिमांसस्य भीताः सन्तर्जिता दण्डभयाज्ज्वलन्ति॥ 12-15-31(70964)
अन्धंतम इवेदं स्यान्न प्रज्ञायेत किंचन।
दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी॥ 12-15-32(70965)
येऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः।
तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः॥ 12-15-33(70966)
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः।
दण्डस्य हि भयाद्भीतो भोगायैव प्रकल्पते॥ 12-15-34(70967)
चातुर्वर्ण्यप्रमोदाय सुनीतिकरणाय च।
दण्डो विधात्रा विहितो धर्मार्थौं भुवि रक्षितुम्॥ 12-15-35(70968)
यदि दण्डान्न विभ्येयुर्वयांसि श्वापदानि च।
अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च॥ 12-15-36(70969)
न ब्रह्मचार्यधीयीत न काल्यं दुहते च गौः।
न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत्॥ 12-15-37(70970)
विष्वग्लोपः प्रवर्तेत भिद्येरन्सर्वसेतवः।
ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत्॥ 12-15-38(70971)
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः।
विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत्॥ 12-15-39(70972)
चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः।
न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत्॥ 12-15-40(70973)
न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः।
न विद्यां प्राप्नुर्यानानि यदि दण्डो न पालयेत्॥ 12-15-41(70974)
न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित्।
तिष्ठेत्पितुर्मते धर्मे यदि दण्डो न पालयेत्॥ 12-15-42(70975)
दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः।
दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः॥ 12-15-43(70976)
न तत्र कूटं पापं वा वञ्चना वाऽपि दृश्यते।
यत्र दण्डः सुविहितश्चरत्यरिविनाशनः॥ 12-15-44(70977)
हविः श्वा प्रलिहेद्दृष्ट्वा दण्डश्चेन्नोद्यतो भवेत्।
हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत्॥ 12-15-45(70978)
यदीदं धर्मतो राज्यं विहितं यद्यधर्मतः।
कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च॥ 12-15-46(70979)
सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः।
संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम्॥ 12-15-47(70980)
अर्थे सर्वे समारम्भाः समायत्ता न संशयः।
स च दण्डे समायत्तः पश्य दण्डस्य गौस्वम्॥ 12-15-48(70981)
लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम्।
अहिंसाऽसाधुहिंसेति श्रेयान्धर्मपरिग्रहः॥ 12-15-49(70982)
नात्यन्तं गुणवत्किंचिन्न चाप्यत्यन्तनिर्गुणम्।
उभयं सर्वकार्येषु दृश्यते साध्वसाधु च॥ 12-15-50(70983)
पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्सु तान्।
वहन्ति बहवो भारान्बध्नन्ति दमयन्ति च॥ 12-15-51(70984)
एवं पर्याकुले लोके वितथैर्जर्झरीकृते।
तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर॥ 12-15-52(70985)
यज देहि प्रजा रक्ष धर्मं समनुपालय।
अमित्राञ्जहि कौन्तेय मित्राणि परिपालय॥ 12-15-53(70986)
मा च ते निघ्नतः शत्रून्मन्युर्भवतु पार्थिव।
न तत्र किल्विषं किंचिद्धन्तुर्भवति भारत॥ 12-15-54(70987)
आततायी हि यो हन्यादाततायिनमागतम्।
न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमार्च्छति॥ 12-15-55(70988)
अवध्यः सर्वभूतानामन्तरात्मा न संशयः।
अवध्ये चात्मनि कथं वध्यो भवति कस्यचित्॥ 12-15-56(70989)
यथा हि पुरुषः शालां पुनः संप्रविशेन्नवाम्।
एव जीवः शरीराणि तानितानि प्रपद्यते॥ 12-15-57(70990)
देहान्पुराणानुत्सृज्य नवान्संप्रतिपद्यते।
एवं मृत्युमुखं प्राहुर्जना ये तत्त्वदर्शिनः॥ ॥ 12-15-58(70991)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चदशोऽध्यायः॥ 15॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-15-6 संसिद्धिके पशुवत् दण्डार्हस्वभावे॥ 12-15-8 दमयति ताडनादिना। दण्डयति वित्तमपहरति॥ 12-15-9 भुज्यत इति भुजं भक्तं तन्मात्रार्पणं वेतनप्रदानमित्यर्थः॥ 12-15-11 श्यामः दृढाभिघातेन दण्ड्यस्यान्ध्यजनकत्वात्। लोहिताक्षो दण्डयितुः क्रोधातिशयात्। सूद्यतः सुतरामुद्यतः। साधु यथापराधम्॥ 12-15-20 सत्वैः सत्वानीति ट. ड. थ. पाठः॥ 12-15-21 व्यालमृगश्चित्रव्याघ्रः॥ 12-15-22 पश्य कालो यथा गत इति झ. पाठः। पश्य धर्मं यथागतमिति ड. त. पाठः॥ 12-15-23 यथासृष्टः शौर्यं तेजो धृतिर्दाक्ष्यमित्याद्युक्तस्वभावः क्षत्रियः सृष्टोऽसि धात्रा॥ 12-15-24 विनीतावपनीतौ क्रोधहर्षौ यैस्ते। मन्दाः क्षत्रियाः। वधं कन्दमूलादिवधम्॥ 12-15-26 स्कन्धपर्ययो देहस्य नाशः॥ 12-15-29 दण्डयुक्ता नीतिर्दण्डनीतिस्तस्यां प्रणीतायां प्रवर्तितायाम्॥ 12-15-30 अभक्ष्यन् भक्षयेयुः॥ 12-15-31 पश्याग्नयश्च प्रतिशाम्येति झ.पाठः। संतर्जिताः फूत्कारेण॥ 12-15-33 भोगाय पालनाय। मर्यादाया इति शेषः॥ 12-15-36 हन्युः पशूनिति ट. ड. पाठः॥ 12-15-37 न कल्याणीं दुहेत गामिति झ. पाठः। तत्र कल्याणीमपत्यवतीं न दुहेत लोक इत्यर्थः। उद्वहनं न गच्छेत् किंतु व्यभिचरेदेव॥ 12-15-38 विश्वलोप इति ट. थ. पाठः। सेतवो मर्यादाः। ममत्वं परिच्छिन्नं न जानीयुः। सर्वः सर्वत्र ममत्वं कुर्यादित्यर्थरः॥ 12-15-39 तिष्ठेयुरनुतिष्ठेयुः ॥ 12-15-42 न तिष्ठेद्युवतीधर्म इति झ. पाठः॥ 12-15-46 यदि दण्डवतो राज्यं विहितं यद्यधर्मतः। कार्यं तत्र न कार्यं च इति ड. थ. पाठः॥ 12-15-47 संवर्षन्तः फलैदीनैरिति झ. पाठः॥ 12-15-51 नस्मु नासिकासु। भिन्दन्ति मस्तकमिति पाठे मस्तकं भिन्दन्ति शृङ्गवृद्धिर्माभूदितीत्यर्थः॥ 12-15-52 जर्झरीकृते दण्डेन। तदभावे भारवहनादिकार्यं न स्यादतः पुराणमेव धर्ममाचर। नत्वत्र प्रवाहायातं हिंसादिदोषमवेक्षस्वेति भावः॥ 12-15-54 मन्युर्दैन्यम्॥ 12-15-55 आततायी शस्त्रपाणिः। मन्युः क्रोधः। मन्युं क्रोधमार्च्छति। आ सर्वत ऋच्छति प्राप्नोति। मन्युः कर्ता नाहं कर्तेति श्रुतेस्तत्र न भ्रूणहा भवतीत्यर्थः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.